हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Sri Rahu Ashtottara Shatanama stotram – श्री राहु अष्टोत्तरशतनाम स्तोत्रम्
शृणु नामानि राहोश्च सैंहिकेयो विधुन्तुदः ।
सुरशत्रुस्तमश्चैव फणी गार्ग्यायणस्तथा ॥ १ ॥
सुरागुर्नीलजीमूतसङ्काशश्च चतुर्भुजः ।
खड्गखेटकधारी च वरदायकहस्तकः ॥ २ ॥
शूलायुधो मेघवर्णः कृष्णध्वजपताकवान् ।
दक्षिणाशामुखरतः तीक्ष्णदंष्ट्रधराय च ॥ ३ ॥
शूर्पाकारासनस्थश्च गोमेदाभरणप्रियः ।
माषप्रियः कश्यपर्षिनन्दनो भुजगेश्वरः ॥ ४ ॥
उल्कापातजनिः शूली निधिपः कृष्णसर्पराट् ।
विषज्वलावृतास्योऽर्धशरीरो जाद्यसम्प्रदः ॥ ५ ॥
रवीन्दुभीकरश्छायास्वरूपी कठिनाङ्गकः ।
द्विषच्चक्रच्छेदकोऽथ करालास्यो भयङ्करः ॥ ६ ॥
क्रूरकर्मा तमोरूपः श्यामात्मा नीललोहितः ।
किरीटी नीलवसनः शनिसामन्तवर्त्मगः ॥ ७ ॥
चाण्डालवर्णोऽथाश्व्यर्क्षभवो मेषभवस्तथा ।
शनिवत्फलदः शूरोऽपसव्यगतिरेव च ॥ ८ ॥
उपरागकरः सूर्यहिमांशुच्छविहारकः ।
नीलपुष्पविहारश्च ग्रहश्रेष्ठोऽष्टमग्रहः ॥ ९ ॥
कबन्धमात्रदेहश्च यातुधानकुलोद्भवः ।
गोविन्दवरपात्रं च देवजातिप्रविष्टकः ॥ १० ॥
क्रूरो घोरः शनेर्मित्रं शुक्रमित्रमगोचरः ।
मानेगङ्गास्नानदाता स्वगृहेप्रबलाढ्यकः ॥ ११ ॥
सद्गृहेऽन्यबलधृच्चतुर्थे मातृनाशकः ।
चन्द्रयुक्ते तु चण्डालजन्मसूचक एव तु ॥ १२ ॥
जन्मसिंहे राज्यदाता महाकायस्तथैव च ।
जन्मकर्ता विधुरिपु मत्तको ज्ञानदश्च सः ॥ १३ ॥
जन्मकन्याराज्यदाता जन्महानिद एव च ।
नवमे पितृहन्ता च पञ्चमे शोकदायकः ॥ १४ ॥
द्यूने कलत्रहन्ता च सप्तमे कलहप्रदः ।
षष्ठे तु वित्तदाता च चतुर्थे वैरदायकः ॥ १५ ॥
नवमे पापदाता च दशमे शोकदायकः ।
आदौ यशः प्रदाता च अन्ते वैरप्रदायकः ॥ १६ ॥
कालात्मा गोचराचारो धने चास्य ककुत्प्रदः ।
पञ्चमे धिषणाशृङ्गदः स्वर्भानुर्बली तथा ॥ १७ ॥
महासौख्यप्रदायी च चन्द्रवैरी च शाश्वतः ।
सुरशत्रुः पापग्रहः शाम्भवः पूज्यकस्तथा ॥ १८ ॥
पाटीरपूरणश्चाथ पैठीनसकुलोद्भवः ।
दीर्घकृष्णोऽतनुर्विष्णुनेत्रारिर्देवदानवौ ॥ १९ ॥
भक्तरक्षो राहुमूर्तिः सर्वाभीष्टफलप्रदः ।
एतद्राहुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् ॥ २० ॥
श्रद्धया यो जपेन्नित्यं मुच्यते सर्वसङ्कटात् ।
सर्वसम्पत्करस्तस्य राहुरिष्टप्रदायकः ॥ २१ ॥
इति श्री राहु अष्टोत्तरशतनाम स्तोत्रम् ।
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.